|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.307. अध्यायः 307
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति साङ्ख्यनिरूपणम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-307-0x(6482)
सम्पक्त्वयाऽयं नृपते वर्णितः शिष्टसंमतः।
योगमार्गो यथान्यायं शिष्यायेह हितैषिणा॥ 12-307-1(77753)
साङ्ख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते।
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते॥ 12-307-2(77754)
भीष्म उवाच। 12-307-3x(6483)
शृणु मे त्वमिदं कृत्स्नं साङ्ख्यानां विदितात्मनाम्।
विदितं यतिभिः सर्वैः कपिलादिभिरीश्वरैः॥ 12-307-3(77755)
यस्मिन्नविभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ।
गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला॥ 12-307-4(77756)
ज्ञानेन परिसङ्ख्याय सदोषान्विषयान्नृप।
मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा॥ 12-307-5(77757)
राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा।
विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा॥ 12-307-6(77758)
पितृणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप।
सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा॥ 12-307-7(77759)
राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा।
आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च॥ 12-307-8(77760)
देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान्।
प्रजापतीनां विषयान्ब्रह्मणो विषयांस्तथा॥ 12-307-9(77761)
आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः।
सुखस्य च परं तत्त्वं विज्ञाय वदतां वर॥ 12-307-10(77762)
प्राप्ते काले च यद्दुःखं सततं विषयैषिणाम्।
तिर्यक्षु पततां दुःखं पततां नरके च यत्॥ 12-307-11(77763)
स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत।
`परिसंख्यानसंख्यानं सत्वं सांख्यगुणात्मकम्।'
वेदवादे येऽपि दोषा गुणा ये चापि वैदिकाः॥ 12-307-12(77764)
ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप।
साङ्ख्यज्ञाने च ये दोषास्तथैव च गुणा नृप।
`इतरेषु च ये दोषा गुणास्तेषु च भारत॥' 12-307-13(77765)
सत्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा।
तमश्चाष्टगुणं ज्ञात्वा वृद्धिं सप्तगुणां तथा॥ 12-307-14(77766)
षङ्गुणं च मनो ज्ञात्वा नभः पञ्चगुणं तथा।
बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं तथा॥ 12-307-15(77767)
द्विगुणं च रजो ज्ञात्वा सत्वमेकगुणं पुनः।
सर्गं विज्ञाय तत्त्वेन प्रलये प्रेक्ष्य चात्मनः॥ 12-307-16(77768)
ज्ञानविज्ञानसंपन्नाः कारणैर्भाविताः शुभाः।
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम्॥ 12-307-17(77769)
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च।
शब्दे सक्तं तथा श्रोत्रं जिह्वा रसगुणेषु च॥ 12-307-18(77770)
त्वचं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम्।
मोहं तमसि संयुक्तं लोभमर्थेषु संश्रितम्॥ 12-307-19(77771)
विष्णौ क्रान्तं बलं शक्रे कोष्ठे सक्तं तथाऽनलम्।
अप्सु देवीं समासक्तामपस्तेजसि संश्रिताः॥ 12-307-20(77772)
तेजः सूक्ष्मे च संयुक्तं वायुं नभसि चाश्रितम्।
नभो महति संयुक्तं महद्बुद्धौ च संश्रितम्॥ 12-307-21(77773)
बुद्धिं तमसि संसक्तां तमो रजसि संश्रितम्।
रजः सत्वे तथा सक्तं सत्वं सक्तं तथाऽऽत्मनि॥ 12-307-22(77774)
सक्तमात्मानमीशे च देवे नारायणे तथा।
देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित्॥ 12-307-23(77775)
ज्ञात्वा सत्वयुतं देहं वृतं षोडशभिर्गुणैः।
स्वभावं चेतनां चैव ज्ञात्वा देहसमाश्रिते॥ 12-307-24(77776)
मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते।
द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम्॥ 12-307-25(77777)
इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान्।
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्॥ 12-307-26(77778)
प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः।
आवहं चानिलं ज्ञात्वा प्रवहं चानिलं पुनः॥ 12-307-27(77779)
सप्तवातांस्तथा शेषान्सप्तधा विहितान्पुनः।
प्रजापतीनृषींश्चैव मार्गांश्चैव बहून्वरान्॥ 12-307-28(77780)
सप्तर्षीश्च बहूञ्ज्ञात्वा राजर्षीश्च परंतप।
सुरर्षीन्महतश्चान्यान्ब्रह्मर्षीन्सूर्यसन्निभान्॥ 12-307-29(77781)
ऐश्वर्याच्च्यावितान्दृष्ट्वा कालेन महता नृप।
महतां भूतसङ्घानां श्रुत्वा नाशं च पार्थिव॥ 12-307-30(77782)
गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मिणाम्।
वैतरण्यां च यद्दुःखं पतितानां यमक्षये॥ 12-307-31(77783)
योनीषु च विचित्रासु संसारानशुभांस्तथा।
जठरे चाशुभे वासं शोणितोदकभाजने॥ 12-307-32(77784)
श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते।
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे॥ 12-307-33(77785)
सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ।
विज्ञायाहितमात्मानं योगांश्च विविधान्नृप॥ 12-307-34(77786)
तामसानां च जन्तूनां रमणीयावृतात्मनाम्।
सात्विकानां च जन्तूनां कुत्सितं भरतर्षभ॥ 12-307-35(77787)
गर्हितं महतामर्थे साङ्ख्यानां विदितात्मनाम्।
उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा॥ 12-307-36(77788)
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम्।
द्वन्द्वानां विप्रयोगं च विज्ञाय कृपण नृप॥ 12-307-37(77789)
अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम्।
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम्॥ 12-307-38(77790)
रागे मोहे च संप्राप्ते क्वचित्सत्वं समाश्रितम्।
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः॥ 12-307-39(77791)
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्।
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः॥ 12-307-40(77792)
विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः।
गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाऽशुभान्॥ 12-307-41(77793)
वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत।
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम्॥ 12-307-42(77794)
सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम्।
गुरूदारप्रसक्तानां गतिं विज्ञाय चाशुभाम्॥ 12-307-43(77795)
जननीषु च वर्तन्ते येन सम्यग्युधिष्ठिर।
सदेवकेषु लोकेषु येन वर्तन्ति मानवाः॥ 12-307-44(77796)
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम्
तिर्यग्योनिगतानां च विज्ञाय च गतिं पृथक्॥ 12-307-45(77797)
वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा।
क्षयं संवत्सराणां च मासानां च क्षयं तथा॥ 12-307-46(77798)
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम्।
क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा॥ 12-307-47(77799)
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः।
क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च॥ 12-307-48(77800)
संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः।
क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा॥ 12-307-49(77801)
वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः।
जरा मृत्युस्तथा जन्म दृष्ट्वा दुःखानि चैव ह॥ 12-307-50(77802)
देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः।
देहविक्लवतां चैव सम्यग्विज्ञाय तत्त्वतः॥ 12-307-51(77803)
आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान्।
स्वदेहादुत्थितान्गब्धांस्तथा विज्ञाय चाशुभान्।
`मूत्रश्लेष्मपुरीषादीन्स्वेदजांश्च सुकुत्सितान्॥' 12-307-52(77804)
युधिष्ठिर उवाच। 12-307-53x(6484)
कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम।
एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः॥ 12-307-53(77805)
भीष्म उवाच। 12-307-54x(6485)
पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः।
मार्गज्ञाः कापिलाः साङ्ख्याः शृणु तानरिसूदन॥ 12-307-54(77806)
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते॥ 12-307-55(77807)
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम्।
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात्॥ 12-307-56(77808)
सत्वसंसेवनान्निद्रामप्रमादाद्भयं तथा।
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप॥ 12-307-57(77809)
गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि।
हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः॥ 12-307-58(77810)
अपां फेनोपमं लोकं विष्णोर्मायाशतैश्वितम्।
चित्रभित्तिप्रतीकाशं नलसारमनर्थकम्॥ 12-307-59(77811)
तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम्।
क्लेशप्रायं सुखाद्धीनं नाशोत्तरमिहावशम्॥ 12-307-60(77812)
रजस्तमसि संमग्नं पङ्के द्वीपमिवावशम्।
साङ्ख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतं॥ 12-307-61(77813)
ज्ञानयोगेन साङ्ख्येन व्यापिना महता नृप।
राजसानशुभान्गन्धांस्तांमसांश्च तथाविधान्॥ 12-307-62(77814)
पुण्यांश्च सात्विकान्गन्धान्स्पर्शजान्देहसंश्रितान्।
छित्त्वाऽऽशु ज्ञानशस्त्रेण तपो दण्डेन भारत॥ 12-307-63(77815)
ततो दुःखोदधिं घोरं चिन्ताशोकमहाह्रदम्।
व्याधिमृत्युमहाग्राहं महाभयमहोरगम्॥ 12-307-64(77816)
तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्युत।
स्नेहपङ्कं जरादुर्गं ज्ञानदीपमरिंदम्॥ 12-307-65(77817)
कर्मागाधं सत्यतीरं स्थितव्रतमरिंदम्।
हिंसाशीघ्रमहावेगं नानारससमाकरम्॥ 12-307-66(77818)
नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम्।
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम्॥ 12-307-67(77819)
अस्थिसंघातसंघट्टं श्लेष्मफेनमरिंदम्।
दानमुक्ताकरं घोरं शोणितह्रदविद्रुमम्॥ 12-307-68(77820)
हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम्।
रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम्। 12-307-69(77821)
पुत्रदारजलौकौघं मत्रिबान्धवपत्तनम्।
अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम्॥ 12-307-70(77822)
वेदान्तगमनद्वीपं सर्वभूतदयोदकम्।
मोक्षदुर्लाभविषयं व़डवामुखसागरम्॥ 12-307-71(77823)
तरन्ति मुनयः सिद्धा ज्ञानयानेन भारत।
तीर्त्वाऽतिदुस्तरं जन्म विशन्ति विमलं नभः॥ 12-307-72(77824)
तत्र तान्सुकृतीन्साङ्ख्यान्सूर्यो वहति रश्मिभिः।
पद्मतन्तुवदाविश्य प्रसह्य विषयान्नृप॥ 12-307-73(77825)
तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत।
वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान्॥ 12-307-74(77826)
सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत।
सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान्।
स तान्वहति कौन्तेय नभसः परमां गतिम्॥ 12-307-75(77827)
नभो वहति लोकेश रजसः परमां गतिम्।
`तमो वहति लोकेश रजसः परमां गतिम्।'
रजो वहति राजेन्द्र सत्वस्य परमां गतिम्॥ 12-307-76(77828)
सत्वं वहति राजेन्द्र परं नारायणं प्रभुम्।
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना॥ 12-307-77(77829)
परमात्मानमासाद्य तद्भूता यतयोऽमलाः।
अमृतत्वाय कल्पन्ते न निवर्तन्ति वा विभो॥ 12-307-78(77830)
परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम्।
सत्यार्जवरतानां वै सर्वभूतदयावताम्॥ 12-307-79(77831)
युधिष्ठिर उवाच। 12-307-80x(6486)
स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः।
आजन्ममरणं वा ते स्मरन्त्युत न वाऽनघ॥ 12-307-80(77832)
यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि।
त्वदृते पुरुषं नान्यं प्रष्टुमर्हामि कौरव॥ 12-307-81(77833)
मोक्षे दोषो महानेष प्राप्य सिद्धिगतानृषीन्।
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे॥ 12-307-82(77834)
प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप।
मग्नस्य हि परे ज्ञाने किं न दुःखतरं भवेत्। 12-307-83(77835)
भीष्म उवाच। 12-307-84x(6487)
यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः।
बुधानामपि संमोहः प्रश्नेऽस्मिन्भरतर्षभ॥ 12-307-84(77836)
अत्रापि तत्त्वं परमं शृणु सम्यङ्भयेरितम्।
बुद्धिश्च परमा यत्र कापिलानां महात्मनाम्॥ 12-307-85(77837)
इन्द्रियाण्येव बुध्यन्ते स्वदेहे देहिनां नृप।
कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः॥ 12-307-86(77838)
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु।
विनश्यन्ति न संदेहः फेना इव महार्णवे॥ 12-307-87(77839)
इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन।
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः॥ 12-307-88(77840)
स पश्यति यथान्यायं स्पर्शान्स्पृशति वा विभो।
बुध्यमानो यथापूर्वमखिलेनेह भारत॥ 12-307-89(77841)
इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि।
अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव॥ 12-307-90(77842)
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः।
आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः॥ 12-307-91(77843)
सत्वस्य च गुणान्कृत्स्नान्नजसश्च गुणान्पुनः।
गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत॥ 12-307-92(77844)
गुणांश्च मनसश्चापि नभसश्च गुणांश्च सः।
गुणान्वायोश्च धर्मात्मंस्तेजसां च गुणान्पुनः॥ 12-307-93(77845)
अपां गुणांस्तथा पार्थ पार्थिंवांश्च गुणानपि।
सर्वात्मना गुणैर्व्याप्तः क्षेत्रज्ञेषु युधिष्ठिर॥ 12-307-94(77846)
आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे।
शिष्या इव महात्मानमिन्द्रियाणि च तं प्रभो॥ 12-307-95(77847)
प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम्।
परं नारायणं देवं निर्द्वन्द्वं प्रकृतेः परम्॥ 12-307-96(77848)
विमुक्तः सर्वपापेभ्यः प्रविष्टस्तमनामयम्।
परमात्मानमगुणं न निवर्तति भारत॥ 12-307-97(77849)
शिष्टं तत्र मनस्तात इन्द्रियाणि च भारत।
आगच्छन्ति यथाकालं गुरोः संदेशकारिणः॥ 12-307-98(77850)
शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना।
एवमुक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा॥ 12-307-99(77851)
साङ्ख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम्।
ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते॥ 12-307-100(77852)
अत्र ते संशयो मा भूज्ज्ञानं सांख्यं परं मतम्।
अक्षरं ध्रुवमव्यक्तं पूर्णं ब्रह्म सनातनम्॥ 12-307-101(77853)
अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम्।
कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः॥ 12-307-102(77854)
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः।
यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः॥ 12-307-103(77855)
सर्वे विप्राश्च देवाश्च तथा शमविदो जनाः।
ब्रह्मण्यं परमं देवमनन्तं परमच्युतम्॥ 12-307-104(77856)
प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः।
सम्यग्युक्तास्तथा योगाः साङ्ख्याश्चामितदर्शनाः॥ 12-307-105(77857)
अमूर्तेस्तस्य कौन्तेय साङ्ख्यं मूर्तिरिति श्रुतिः।
अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ॥ 12-307-106(77858)
द्विविधानीह भूतानि पृथिव्यां पृथिवीपते।
जङ्गमाजङ्गमाख्यानि जङ्गमं तु विशिष्यते॥ 12-307-107(77859)
ज्ञानं महद्यद्धि महत्सु राज
न्वेदेषु साङ्ख्येषु तथैव योगे।
यच्चापि दृष्टं विविधं पुराणे
साङ्ख्यागतं तन्निखिलं नरेन्द्र॥ 12-307-108(77860)
यच्चेतिहासेषु महत्सु दृष्टं
यच्चार्थशास्त्रे नृप शिष्टजुष्टे।
ज्ञानं च लोके यदिहास्ति किंचि
त्साङ्ख्यागतं तच्च महन्महात्मन्॥ 12-307-109(77861)
शमश्च दृष्टः परमं बलं च
ज्ञानं च साङ्ख्यं च यथावदुक्तम्।
तपांसि सूक्ष्माणि सुखानि चैव
साङ्ख्ये यथावद्विहितानि राजन्॥ 12-307-110(77862)
विपर्यये तस्य हि पार्थ देवा
न्गच्छन्ति साङ्ख्याः सततं सुखेन।
तांश्चानुसंचार्य ततः कृतार्थाः
पतन्ति विप्रेषु यतेषु भूयः॥ 12-307-111(77863)
हित्वा च देहं प्रविशन्ति मोक्षं
दिवौकसो द्यामिव पार्थ साङ्ख्याः।
अतोऽधिकं तेऽभिरता महार्थे
साङ्ख्ये द्विजाः पार्थिव शिष्टजुष्टे॥ 12-307-112(77864)
तेषां न तिर्यग्गमनं हि दृष्टं
नार्वाग्गतिः पापकृताधिवासः।
च चाबुधानामपि ते द्विजातयो
ये ज्ञानमेतन्नृपतेऽनुरक्ताः॥ 12-307-113(77865)
साङ्ख्यं विशालं परमं पुराणं
महार्णवं विमलमुदाहरन्ति
कृत्स्नं च साङ्ख्यं नृपते महात्मा
नारायणो धारयतेऽप्रमेयम्॥ 12-307-114(77866)
एतन्मयोक्तं नरदेव तत्त्वं
नारायणो विश्वमिदं पुराणम्।
स सर्गकाले च करोति सर्गं
संहारकाले च तदत्ति भूयः॥ 12-307-115(77867)
संहृत्य सर्वं निजदेहसंस्थं
कृत्वाऽप्सु शेते जगदन्तरात्मा॥ ॥ 12-307-116(77868)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्ताधिकत्रिशततमोऽध्यायः॥ 307॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-307-1 सम्यक्त्वया यज्ञपते इति थ. पाठः॥ 12-307-4 यस्मिन्न विश्रमाः इति थ. पाठः॥ 12-307-5 दोषान्विषयजान्नृपेति थ. पाठः॥ 12-307-9 विषयांश्च प्रणाशान्तान्ब्रह्मणो विषयांस्तथेति ध. पाठः॥ 12-307-19 तनुं स्पर्शो इति झ. पाठः॥ 12-307-20 कोष्ठे उदरे। देवीं पृथ्वीम्॥ 12-307-24 सत्वगुणं देहमिति झ. पाठः॥ 12-307-36 उपप्लवान् उपरागान्। तेजसः सूर्यस्य॥ 12-307-37 नराणां पतनं दृष्ट्वेति थ. पाठः। बन्धूनां विप्रयोगं चेति ट. पाठः। द्वन्द्वानां दम्पतीनाम्॥ 12-307-39 क्वचित्पुंसि॥ 12-307-40 बहुमानं अत्यादरम्। मध्यस्थतां औदासीन्यम्॥ 12-307-41 दौरात्म्यं बन्धहेतुताम्॥ 12-307-42 कुलेषु गृहेषु॥ 12-307-45 विज्ञाय गतयः पृथगिति थ. पाठः॥ 12-307-48 क्षयं वनानामिति थ. पाठः॥ 12-307-59 नलसारं नलतृणवदन्तःसारद्दीनम्॥ 12-307-60 क्लेशप्रायं क्लेशबहुलम्॥ 12-307-65 स्पर्शद्विपमरिंदमेति ट. थ. पाठः॥ 12-307-67 व्याधिमहारुजमिति थ. पाठः॥ 12-307-76 तमसः परमां गतिमिति थ. पाठः॥ 12-307-83 मग्नस्य हि परं ज्ञानमिति झ. पाठः॥ 12-307-85 तथापि परमं तत्वमिति ट. थ. पाठः॥ 12-307-104 सर्वे देवाश्च वेदाश्चेति ट. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|